|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.97. अध्यायः 097
Mahabharata - Bhishma Parva - Chapter Topics
भीष्मो न्यस्तशस्त्रश्चेदहं पाण्डवान् जेष्यामीति कर्णबोधितेन दुर्योधनेन रात्रौ भीष्ममेत्य कर्णस्य युद्धानुज्ञाप्रार्थना ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच। 6-97-0x(4182)(43134)
ततो दुर्योधनो राजा शकुनिश्चापि सौबलः।
दुःशासनश्च पुत्रस्ते सूतपुत्रश्च दुर्जयः ॥ 6-97-1(43135)
समागम्य महाराज मन्त्रं चक्रुर्विवक्षितम् ।
कथं पाण्डुसुताः सङ्ख्ये जेतव्याः सगणा इति॥ 6-97-2(43136)
ततो दुर्योधनो राजा सर्वांस्तानाह मन्त्रिणः ।
सूतपुत्रं समाभाष्य सौबलं च महाबलम् ॥ 6-97-3(43137)
द्रोणो भीष्म कृपः शल्यः सौमदत्तिश्च संयुगे।
न पार्थान्प्रति बाधन्ते न जाने किंनु कारणम् ॥ 6-97-4(43138)
अवध्यमानास्ते चापि क्षपयन्ति बलं मम।
सोऽस्मि क्षीणबलः कर्ण क्षीणशस्त्रश्च संयुगे ॥ 6-97-5(43139)
`द्रोणस्य प्रमुखे वीरा हतास्ते भ्रातरो मम।
भीमसेनेन राधेय मम चैव च पश्यतः '॥ 6-97-6(43140)
निकृतः पाण्डवैः शूरैरवध्यैर्दैवतैरपि ।
सोऽहं संशयमापन्नः प्रकरिष्ये कथं रणम् ॥ 6-97-7(43141)
सञ्जय उवाच। 6-97-8x(4183)
तमब्रवीन्महाराज सूतपुत्रो नराधिपम् ।
मा शोच भरतश्रेष्ठ करिष्येऽहं प्रियं तव ॥ 6-97-8(43142)
भीष्मः शान्तनवस्तूर्णमपयातु महारणात् ।
निवृत्ते युधि गाङ्गेये न्यस्तशस्त्रे च भारत ॥ 6-97-9(43143)
अहं पार्थान्हनिष्यामि सहितान्सर्वसोमकैः ।
पश्यतो युधि भीष्मस्य शपे सत्येन ते नृप ॥ 6-97-10(43144)
पाण्डवेषु दयां नित्यं स हि भीष्मः करोति वै।
अशक्तश्च रणे भीष्मो जेतुमेतान्महारथान् ॥ 6-97-11(43145)
अभिमानी रणे भीष्मो नित्यं चापि रणप्रियः ।
स कथं पाण्डवान्युद्धे जेष्यते तात संगतान् ॥ 6-97-12(43146)
स त्वं शीघ्रमितो गत्वा भीष्मस्य शिबिरं प्रति ।
अनुमान्य गुरुं वृद्धं शस्त्रं न्यासय भारत ॥ 6-97-13(43147)
न्यस्तशस्त्रे ततो भीष्मे निहतान्पश्य पाण्डवान् ।
मयैकेन रणे राजन्ससुहृद्गणबान्धवान् ॥ 6-97-14(43148)
एवमुक्तस्तु कर्णेन पुत्रो दुर्योधनस्तव ।
अब्रवीद्भ्रातरं तत्र दुःशासनमिदं वचः ॥ 6-97-15(43149)
अनुयात्रं यथा सर्वं सज्जीभवति सर्वशः ।
दुःशासन तथा क्षिप्रं सर्वमेवोपपादय ॥ 6-97-16(43150)
एवमुक्त्वा ततो राजन्कर्णमाह जनेश्वरः ।
अनुमान्य रणे भीष्ममेषोऽहं द्विपदां वरम् ॥ 6-97-17(43151)
आगमिष्ये ततः क्षिप्रं त्वत्सकाशमरिन्दम।
अपक्रान्ते ततो भीष्मे प्रहरिष्यसि संयुगे ॥ 6-97-18(43152)
निष्पपात ततस्तूर्णं पुत्रस्तव विशांपते ।
सहितो भ्रातृभिस्तैस्तु देवैरिव शतक्रतुः ॥ 6-97-19(43153)
ततस्तं नृपशार्दूलं शार्दूलसमविक्रमम् ।
आरोपयद्धयं तूर्णं भ्राता दुःशासनस्तदा ॥ 6-97-20(43154)
अङ्गदी बद्धमुकुटो हस्ताभरणवान्नृप ।
धार्तराष्ट्रो महाराज विबभौ स पथि व्रजन् ॥ 6-97-21(43155)
भण्डीपुष्पनिकाशेन तपनीयनिभेन च।
अनुलिप्तः परार्द्ध्येन चन्दनेन सुगन्धिना ॥ 6-97-22(43156)
अरजोम्बरसंवीतः सिंहखेलगतिर्नृप ।
शुशुभे विमलार्चिष्मान्नभसीव दिवाकरः ॥ 6-97-23(43157)
तं प्रयान्तं नरव्याघ्रं भीष्मस्य शिबिरं प्रति ।
अनुजग्मुर्महेष्वासाः सर्वलोकस्य धन्विनः ।
भ्रातरश्च महेष्वासास्त्रिदशा इव वासवम् ॥ 6-97-24(43158)
हयानन्ये समारुह्य गजानन्ये च भारत ।
रथानन्ये नरश्रेष्ठं परिवव्रुः समन्ततः ॥ 6-97-25(43159)
`पदातयश्च त्वरिता नखरप्रासयोधिनः।
परिवव्रुर्महेष्वासं धार्तराष्ट्रं महारथम् ॥' 6-97-26(43160)
आत्तशस्त्राश्च सुहृदो रक्षणार्थं महीपतेः ।
प्रादुर्बभूवुः सहिताः शक्रस्येवामरा दिवि ॥ 6-97-27(43161)
स पूज्यमानः कुरुभिः कौरवाणां महाबलः ।
प्रययौ सदनं राजा गाङ्गेयस्य यशस्विनः ।
अन्वीयमानः सततं सोदरैः परिवारितः ॥ 6-97-28(43162)
दक्षिणं दक्षिणः काले संभृत्य स्वभुजं तदा।
हस्तिहस्तोपमं सौम्यं सर्वशत्रुनिबर्हणम् ॥ 6-97-29(43163)
प्रगृह्णन्नञ्जलीन्नॄणामुद्यतान्सर्वतो दिशः।
शुश्राव मधुरा वाचो नानादेशनिवासिनाम् ॥ 6-97-30(43164)
संस्तूयमानः सूतैश्च मागधैश्च महायशाः।
पूजयानश्च तान्सर्वान्सर्वलोकेश्वरेश्वरः॥ 6-97-31(43165)
प्रदीपैः काञ्चनैस्तत्र गन्धतैलावसेचितैः ।
परिवव्रुर्महाराजं प्रज्वलद्भिः समन्ततः ॥ 6-97-32(43166)
स तैः परिवृतो राजा प्रदीपैः काञ्चनैर्ज्वलन्।
शुशुभे चन्द्रमायुक्तो दीप्तैरिव महाग्रहैः ॥ 6-97-33(43167)
कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः।
प्रोत्सारयन्तः शनकैस्तं जनं सर्वतो दिशम् ॥ 6-97-34(43168)
संप्राप्य तु ततो राजा भीष्मस्य सदनं शुभम् ।
अवतीर्य हयाच्चापि भीष्मं प्राप्य जनेश्वरः ॥ 6-97-35(43169)
अभिवाद्य ततो भीष्मं निषण्णः परमासने।
काञ्चने सर्वतोभद्रे स्पर्द्ध्यास्तरणसंवृते।
उवाच प्राञ्जलिर्भीष्मं बाष्पकण्ठोऽश्रुलोचनः ॥ 6-97-36(43170)
त्वां वयं हि समाश्रित्य संयुगे शत्रुसूदन ।
उत्सहेम रणे जेतुं सेन्द्रानपि सुरासुरान् ।
किमु पाण्डुसुतान्वीरान्ससुहृद्गणबान्धवान् ॥ 6-97-37(43171)
तस्मादर्हसि गाङ्गेय कृपां कर्तुं मयि प्रभो।
जहि पाणडुसुतान्वारान्महेन्द्र इव दानवान् ॥ 6-97-38(43172)
पूर्वमुक्तं महाबाहो हनिष्यामि ससोमकान् ।
पाञ्चालान्केकयैः सार्धं करूपांश्चेति भारत ॥ 6-97-39(43173)
त्वद्वचः सत्यमेवास्तु जहि पार्थान्समागतान् ।
सोमकांश्च महेष्वासान्सत्यवाग्भव भारत ॥ 6-97-40(43174)
दयया यदि वा राजन्द्वेष्यभावान्मम प्रभो ।
मन्दभाग्यतया वापि मम रक्षसि पाण्डवान् ॥ 6-97-41(43175)
अनुजानीहि समरे कर्णमाहवशोभिनम् ।
स जेष्यति रणे पार्थान्ससुहृद्गणबान्धवान् ॥ 6-97-42(43176)
सञ्जय उवाच। 6-97-43x(4184)
स एवमुक्त्वा नृपतिः पुत्रो दुर्योधनस्तव।
नोवाच वचनं किंचिद्भीष्मं सत्यपराक्रमम् ॥ ॥ 6-97-43(43177)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि सप्तनवतितमोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-97-21 भण्डीपुष्पं मञ्जिष्ठापुष्पम् ॥ 6-97-29 दक्षिणं स्वभुजं संभृत्य समुद्धृत्य ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|